|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.62. अध्यायः 062
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति मान्धातृचरिताभिधानम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-62-0x(4417)(47092)
मान्धतारं यौवनाश्वं मृतं सृञ्जय शुश्रुम।
यं देवावश्विनौ गर्भे पितुः पार्श्वे चकर्षतुः॥ 7-62-1(47093)
मृगयां विचरन्राजा तृषितः क्लान्तवाहनः।
धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यमवाप सः॥ 7-62-2(47094)
तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम्।
गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ॥ 7-62-3(47095)
तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम्।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै॥ 7-62-4(47096)
मामेवायं धयत्वङ्ग इति ह स्माह वासवः।
ततोङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत्पयोऽमृतम्॥ 7-62-5(47097)
मां धास्यतीति कारण्याद्यदिन्द्रो ह्यन्वकम्पयत्।
तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम्॥ 7-62-6(47098)
ततस्तु धारां पयसो घृतस्य च महात्मनः।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्॥ 7-62-7(47099)
अपिबत्पाणिमिन्द्रस्य स चाप्यह्गाऽभ्यवर्धत।
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान्॥ 7-62-8(47100)
इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत्।
धर्मात्मा धृतिमान्वीरः सत्यसन्धो जितेन्द्रियः॥ 7-62-9(47101)
जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम्।
असितं च नृगं चैव मान्धाता मानवोऽजयत्॥ 7-62-10(47102)
उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति।
तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते॥ 7-62-11(47103)
सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते॥ 7-62-12(47104)
हैरण्यान्योजनोत्सेधानायताञ्शतयोजनम्।
बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान्॥ 7-62-13(47105)
अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः॥ 7-62-14(47106)
भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः।
घृतहदाः सूपपङ्का दधिफेनां गुडोदकाः॥ 7-62-15(47107)
रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः।
देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः॥ 7-62-16(47108)
विप्रास्तत्रागताश्चासन्वेदवेदाङ्गपारगाः।
ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः॥ 7-62-17(47109)
समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः।
स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति॥ 7-62-18(47110)
`राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः'।
गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः॥ 7-62-19(47111)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-62-20(47112)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये द्विषष्टितमोऽध्यायः॥ 62 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-62-6 तस्मान्मान्धातरित्येवं इति क.पाठः॥ 5-62-8 द्वादशसमो द्वादशवार्षिकः। शय इति पाठे द्वादशहस्तः। व्यजीजयद्विजितवान्॥ 5-62-13 रोहितान् लोहितभूप्रदेशान्पद्मरागखनिमतो वा मत्स्यान्देशविशेषान्। हैरण्यान् स्वर्णाकरयुक्तान्। जनोत्सेधान् जनेषु उत्सेध उच्छ्रायो येषां तान्। मत्स्यदेशोत्पन्ने हि नद्यावद्यापि परम्परया पूर्वापरौ समुद्रौ गच्छत इति तेषामुच्छ्रितत्वं प्रसिद्धम्। रोहितानश्वान् इति क.ङ.पाठः॥ 5-62-14 अतिरिक्तमवशिष्टं भुञ्जानो जन एव हीयते तत्वन्नमित्यर्थः॥ 5-62-62 द्विषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|